---- स्वच्छभारताभियानम् -----
(हिन्दी: - स्वच्छ भारत अभियान, आङ्ग्ल: - Swachh Bharat Abhiyan) इत्याख्यं महाभियानं भारतगणराज्यस्य प्रधानमन्त्रिणानरेन्द्र मोदीमहाभागेन उद्घोषितम्। २०१४ तमस्य वर्षस्य अप्रैल-मासस्य द्वितीये (२ / १०/ २०१४) दिनाङ्के स्वच्छभारताभियानस्य आरम्भः अभवत् । २/१० दिनाङ्के भारतगणराज्यस्य पूर्व प्रधानमन्त्रिणः लाल बहादूर शास्त्री-महोदयस्य, राष्ट्रपितुःमहात्मनः च जन्मदिवसत्वेन आभारतम् उत्सवः आचर्यते । तयोः महापुरुषयोः संस्मरणार्थं २/१० दिने तस्य स्वच्छभारताभियानस्य आरम्भः अभवत् ।
----- इतिहास -----
२०१४ तमस्य वर्षस्य अगस्त-मासस्य पञ्चदशे (१५/८/२०१४) दिनाङ्के स्वतन्त्रतादिनपर्वणिभारतगणराज्यस्य प्रधानमन्त्रिणानरेन्द्र मोदी-महाभागेन उद्घोषणा कृता आसीत् यत्, स्वच्छभारताभियानं २/१० दिनाङ्कात्महात्मजयन्तीपर्वदिनात्आरप्सयते इति । २०१४ तमस्य वर्षस्य अक्तूबर-मासस्य द्वितीये (२/१०/२०१४) दिनाङ्केनवदेहली-महानगरस्थे राजघाटेप्रधानमन्त्री नरेन्द्र मोदी भारतंन्यवेदयत्, "सर्वे स्वच्छभारताभियाने योगदानं यच्छन्तु" इति । तस्मिन् दिने स्वयंप्रधानमन्त्री स्वहस्ते मार्जनीं धृत्वानवदेहली-महानगरस्थे मन्दिरमार्गे स्वच्छताकार्यं प्रारभत ।
---- अभियानस्य उद्देश्य -----
वर्तमानभारतदेशः आधुनिकः देशः इति आविश्वं चर्चा अस्ति । सः देशःचन्द्रयानं निर्माय चन्द्रारोहणं कृतवान्, परन्तु अद्यापि तस्य देशस्य नागरिकाः अनावृत्ते स्थले (on open place) शौचं कुर्वन्ति । यत्र कुत्रापि अवकरं प्रक्षिपन्ति । ते यत्र कुत्रापि ष्ठीवन्ति (थूँकते हैं) । एतादृशैः वाक्यैः देशाभिमानिनः बहुपीडाम् अनुभवन्ति । वर्तमानभारते ७२% जनाः अनावृत्ते स्थले (on open place) शौचं कुर्वन्ति। तेषु अधिकाः जनाः ग्रामवासिनः सन्ति । वृक्षावरणेषु, कृषिक्षेत्रेषु, मार्गस्य समीपं च अधिकाः जनाः शौचं कुर्वन्ति । तेन अनेकाः समस्याः समुत्पद्यन्ते । बालकानाम् अकालमृत्युः, सङ्क्रमणयुक्तानां रोगाणां विस्तारः, शौचस्थानं जनविहीनम् एव भवति, अतः महिलानांबलात्कारस्य घटनाः अधिकाः भवन्ति इत्यादयः अनेकाः समस्याः सन्ति । तासां समस्यानां निवारणं भवेत्, अतः स्वच्छभारताभियानस्य परिकल्पना समुद्भूता । उक्तस्य उद्देश्यस्य पूर्त्यै एव अभियानस्यास्य आरम्भः अभवत् । परन्तु अनेन सह अन्यानि कारणानि अपि सम्मिलितानि आसन् ।
२०१९ तमस्य वर्षस्य अक्तूबर-मासस्य द्वितीये (२/१०/२०१९) दिनाङ्के महात्मनः १५० तमा जन्मजयन्ती अस्ति । यतो हिमहात्मनः प्रियतमेषु कार्येषु स्वच्छताकार्यम् अपि अन्यतमम् आसीत् । अतः तस्य १५० तमायाः जन्मशताब्द्याः दिने महात्मनाईप्सितं स्वच्छं भारतं तस्मै समर्पयामः इति अस्य अभियानस्य अपरः उद्देशः वर्तते । एतत् अभियानं पञ्चवर्षात्मकम् अस्ति । स्वच्छभारताभियानंभारतगणराज्यस्य सर्वकारेण सञ्चालितम् अभियानम् अस्ति । एतेषु पञ्चवर्षेषु ४,०४१ नगराणां वीथिकाः, मार्गान्, क्षेत्राणि च स्वच्छं कर्तुम् तस्य अभियानस्य उद्घोषः अभवत् ।
लाल बहादूर शास्त्री-महोदयेनअस्मभ्यं मन्त्रः दत्तः आसीत् यत्, 'जय जवान, जय किसान' इति । तस्य आह्वानेन आभारतं जनाः कृषिक्रान्तिम् अकुर्वन् । यदा तेनभारतस्य आह्वानं कृतम् आसीत्, तदा भारतगणराज्यस्य सामान्यात् अतिसामान्यः जनः अपि तस्य उद्घोषं सफलीकर्तुं प्रयासम् अकरोत् । तथैव एतस्य अभियानस्य कृते अपि भवतु इति । यदि तस्मिन् काले भारतम्अकरोत्, तर्हि अद्यापि करिष्यति इत्यपि अन्यतमः उद्देशः
२०१९ तमस्य वर्षस्य अक्तूबर-मासस्य द्वितीये (२/१०/२०१९) दिनाङ्के महात्मनः १५० तमा जन्मजयन्ती अस्ति । यतो हिमहात्मनः प्रियतमेषु कार्येषु स्वच्छताकार्यम् अपि अन्यतमम् आसीत् । अतः तस्य १५० तमायाः जन्मशताब्द्याः दिने महात्मनाईप्सितं स्वच्छं भारतं तस्मै समर्पयामः इति अस्य अभियानस्य अपरः उद्देशः वर्तते । एतत् अभियानं पञ्चवर्षात्मकम् अस्ति । स्वच्छभारताभियानंभारतगणराज्यस्य सर्वकारेण सञ्चालितम् अभियानम् अस्ति । एतेषु पञ्चवर्षेषु ४,०४१ नगराणां वीथिकाः, मार्गान्, क्षेत्राणि च स्वच्छं कर्तुम् तस्य अभियानस्य उद्घोषः अभवत् ।
लाल बहादूर शास्त्री-महोदयेनअस्मभ्यं मन्त्रः दत्तः आसीत् यत्, 'जय जवान, जय किसान' इति । तस्य आह्वानेन आभारतं जनाः कृषिक्रान्तिम् अकुर्वन् । यदा तेनभारतस्य आह्वानं कृतम् आसीत्, तदा भारतगणराज्यस्य सामान्यात् अतिसामान्यः जनः अपि तस्य उद्घोषं सफलीकर्तुं प्रयासम् अकरोत् । तथैव एतस्य अभियानस्य कृते अपि भवतु इति । यदि तस्मिन् काले भारतम्अकरोत्, तर्हि अद्यापि करिष्यति इत्यपि अन्यतमः उद्देशः
---- अभियानस्य प्रारूपम् ----
स्वच्छभारताभियानं तु भारतीयानां कृते उद्घोषितम् अभियानं वर्तते । अतः केवलं राजनैतिकक्षेत्रीयाः, सर्वकारस्य जनाः, कर्मकराः च अभियानेऽस्मिन् कार्यं कुर्युः इति अयोग्यं मन्यते । एवं हि भारतवर्षम् अत्यन्तं विशालं वर्तते, सर्वकारस्य साधनानि न्यूनानि भवन्ति अभियानाय । अतः सर्वकारेण, सामाजिकसंस्थाभिः, नागरिकैः च मिलित्वा कृतः प्रयासः एव भारतं स्वच्छं कर्तुं शक्नोति । सः प्रयासः कीदृशः भवेत् चेत्,
१. अनावृत्ते स्थले (on open place) शौचसमस्यायाः निराकरणम् ।
२. आरोग्यविघातकानां शौचालयानां स्थाने फ्लश्-शौचालयानां संस्थापनं करणीयम् ।
३. To Eradicate manual scavenging
४. नगरपालिकायाः स्थूल-अपशिष्टस्य (Municipal solid waste - MSW) सङ्ग्रहणं तथा तस्य स्थूलापशिष्टस्य वैज्ञानिकरीत्या प्रसंस्करणं/नाशः करणीयः । यदि तस्य स्थूलापशिष्टस्य प्रक्रियानन्तरं पुनरुपयोगः शक्यः, तर्हि पुनरुपयोगाय प्रयासः करणीयः ।
५. जनानां व्यवहारेषु योग्यस्वच्छतायाः अभ्यासबीजानि वपितुं प्रयासः करणीयः ।
६. जनेषु निर्मलीकरणभावनायाः उज्जागरणं, तस्य च सार्वजनिकस्वास्थ्येन सह अनुबन्धः ।
७. स्वच्छताकार्यस्य परिकल्पनायै, क्रियान्वयाय, व्यवस्थायै च क्षेत्रीयनगरनिगमविभागः बलवान् करणीयः ।
८. स्वायत्तक्षेत्रपक्षतः (Private Sector) अभियानेऽस्मिन् योगदानाय योग्यं वातावरणं निर्मातव्यं, येन धनव्ययार्थम्, अपशिष्टसङ्कलनकार्यस्य क्रियान्वयाय, अनुसंरक्षणाय (Maintenance) च सहायता भवेत् ।
----विद्यालयेभ्यः स्वच्छभारताभियानम्----
समाजस्य भविष्यं बालकाः भवन्ति । अतः अभियानेऽस्मिन् स्वच्छभविष्यस्य निर्माणार्थम् अपि प्रयासाः भविष्यन्ति । तस्य कृते विद्यालयेभ्यः भिन्नरीत्या स्वच्छताभियानस्य परियोजना सर्वकारेण कृता अस्ति । तस्यै परियोजनायै केचन मुख्यांशाः विचारिताः सन्ति ।
१. विद्यालये जलं, स्वच्छता, स्वास्थ्यरक्षा च
२. जलस्य, स्वच्छतायाः, स्वास्थ्यरक्षायाः च विद्यालयेषु स्थितिः
३. पाठ्यक्रमेषु स्वच्छविद्यालयस्य अभ्यासः
४. स्वच्छतायाः परिकल्पना (विद्यालयस्तरे)
५. स्वच्छताभियानस्य क्रियान्वयः
६. मार्गेषु, यात्रायां च स्वच्छतायाः योग्यपद्धतीनां व्यवहारः सामुहिकहस्तप्रक्षालनस्य व्यवस्था
७. पाकशालायाः स्वच्छतायै मार्गदर्शनं, व्यवस्था च
८. विद्यार्थिनां कृते, विद्यार्थिनीनां च कृते भिन्नशौचालयस्य सुविधा
उक्तानाम् अंशानां क्रियान्वयदृष्ट्या सर्वकारः प्रत्यक्षं नियन्त्रणं करिष्यति । यतो हि भारतगणराज्यस्य विद्यालयेषु स्वच्छतायाः अभावः विद्यते । भारतसर्वकारस्य संशोधनानुसारं १९.३ कोटिसङ्ख्याकेषु विद्यार्थिषु ५ कोटिसङ्ख्याकानाम् अपि विद्यार्थिनां कृते पेयजलस्य सुविधा नास्ति । आभारते १,५२,२३१ विद्यालयेषु विद्यार्थिनां कृते शौचालयाः न सन्ति । तथा च १,०१,४४३ विद्यालयेषु विद्यार्थिनीनां कृते शौचालयाः न सन्ति । येषु विद्यालयेषु शौचालयः अस्ति, तेषु जलस्य व्यवस्था एव नास्ति । आभारते २७.४% विद्यालयेषु विद्यार्थिशौचालये जलस्य व्यवस्था नास्ति । तथा च ३१.५% ५४ विद्यालयेषु विद्यार्थिनीनां शौचालये जलव्यवस्था नास्ति ।
-----विद्यालयीयप्रवृत्तिषु स्वच्छताभियानम्----
१. विद्यालयेषु कक्षायाः समये विद्यार्थिभिः सह स्वच्छतायाः विषये चर्चा भवेत् । स्वच्छतायाः विभिन्नानां विषयाणां महात्मनःविचारैः सह सम्बन्धं संस्थाप्य विद्यार्थिषु स्वच्छतायै जागरूकता उद्भावनीया ।
२. कक्षा, प्रयोगशाला, पुस्तकालयः इत्यादीनां प्रकोष्ठानां स्वच्छता करणीया ।
३. विद्यालये स्थापितां मूर्तिं (सरस्वतीमातुः, संस्थायाः स्थापकस्य मूर्तिं) प्रतिदिनं धावेत् (सम्मार्जयेत्) । तथा च संस्थापकस्य योगदानस्य विषयेऽपि चर्चा करणीया ।
४. शौचालय-पेयजलस्थानादिकं च स्वच्छं करणीयम् ।
५. पाकशाला-भाण्डागारादिकञ्च स्वच्छं करणीयम् ।
६.निबन्धलेखने, वाद-विवादस्पर्धायां, चित्रकलायां च स्वच्छतासम्बद्धाः प्रतियोगिताः आयोजनीयाः ।
No comments:
Post a Comment